वांछित मन्त्र चुनें

स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः । वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥

अंग्रेज़ी लिप्यंतरण

satyam itthā vṛṣed asi vṛṣajūtir no vṛtaḥ | vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ ||

पद पाठ

स॒त्यम् । इ॒त्था । वृषा॑ । इत् । अ॒सि॒ । वृष॑ऽजूतिः । नः॒ । अवृ॑तः । वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒ऽवति॑ । वृषः॑ । अ॒र्वा॒ऽवति॑ । श्रु॒तः ॥ ८.३३.१०

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:10 | अष्टक:6» अध्याय:3» वर्ग:8» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:10